|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.80. अध्यायः 080
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
चित्राङ्गदया रणाङ्गणनिपतितपतिपुत्रदर्शनजशोकातिरेकेण मोहाधिगमः॥ 1 ॥ तथा संज्ञोपलम्भे उलूपींप्रत्युपालम्भ गर्भवचनम्॥ 2 ॥ ततश्चिराल्लुब्धसंज्ञेन बभ्रुवाहनेनात्मोपालम्भनपूर्वकं प्रायोपवेशनम्॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
ततो बहुतरं भीरर्विलप्य कमलेक्षणा।
मुमोह दुःखसंतप्ता पपात च महीतले॥ 14-80-1(94726)
प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा।
उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत्॥ 14-80-2(94727)
उलूपि पश्य भर्तारं शयानं नितं रणे।
त्वत्कृते मम पुत्रेण बाणेन समितिंजयम्॥ 14-80-3(94728)
ननु त्वमार्यधर्मज्ञा ननु चासि पतिव्रता।
यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे॥ 14-80-4(94729)
किंनु मन्देऽपकराद्धोऽयं यदि तेऽद्य धनंजयः।
क्षमस्व याच्यमाना वै जीवयस्व धनंजयम्॥ 14-80-5(94730)
ननु त्वमार्ये धर्मज्ञे त्रैलोक्यविदिता शुभे।
यद्धातयित्वा पुत्रेण भर्तारं नानुशोचसि॥ 14-80-6(94731)
नाहं शोचामि तनयं हतं पन्नगनन्दिनि।
पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम्॥ 14-80-7(94732)
इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम्।
भर्तारमभिगम्येदमित्युवाच यशस्विनी॥ 14-80-8(94733)
उत्तिष्ठ कुरुमुख्यस्य प्रियमुख्य मम प्रिय।
अयमश्वो महाबाहो मयो ते परिमोक्षितः॥ 14-80-9(94734)
ननु त्वया नाम विभो धर्मराजस्य यज्ञियः।
अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले॥ 14-80-10(94735)
त्वयि प्राणा ममायत्ताः कुरूणां कुरुनन्दन।
स कस्मात्प्राणदोऽन्येषां प्राणान्संत्यक्तवानसि॥ 14-80-11(94736)
उलूपि साधु पश्येमं पतिं निपतितं भुवि।
पुत्रं चेमं समुत्साद्य घातयित्वा न शोचसि॥ 14-80-12(94737)
कामं स्वपितु बालोऽयं भूमौ मृत्युवशं गतः।
लोहिताक्षो गुडाकेशो विजयः साधु जीवतु॥ 14-80-13(94738)
नापराधोऽस्ति सुभगे नराणां बहुभार्यता।
प्रमदानां भवत्येष मा ते भूद्बुद्धिरीदृशी॥ 14-80-14(94739)
सख्यं चैतत्कृतं धात्रा शश्वदव्ययमेव तु।
सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते॥ 14-80-15(94740)
पुत्रेम घातयित्वैनं पतिं यदि न मेऽद्य वै।
जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम्॥ 14-80-16(94741)
साऽहं दुःखान्विता देवि पतिपुत्रविनाकृता।
इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः॥ 14-80-17(94742)
इत्युक्त्वा पन्नगसुतां सपत्नी चैत्रवाहनी।
ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप॥ 14-80-18(94743)
ततो विलप्य विरता भर्तुः पादौ प्रगृह्य सा।
उपविष्टा भवद्दीना सोच्छ्वासं पुत्रमीक्षती॥ 14-80-19(94744)
ततः संज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः।
मातरं तामथालोक्य रणभूमावथाब्रवीत्॥ 14-80-20(94745)
इतो दुःखतरं किंनु यन्मे माता सुखैधिता।
भूमौ निपतितं वीरमनुशेते मृतं पतिम्॥ 14-80-21(94746)
निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम्।
मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं बत॥ 14-80-22(94747)
अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते।
व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम्॥ 14-80-23(94748)
दुर्मरं पुरुषेणेह मन्ये काले ह्यनागते।
यत्र नाहं न मे माता न वियुक्तौ स्वजीवितात्॥ 14-80-24(94749)
हाहा धिक्कुरुवीरस्य किरीटं काञ्चनं भुवि।
अपविद्धं हतस्येह मया पुत्रेम पश्यत॥ 14-80-25(94750)
भोभो पश्यत मे वीरं पितरं ब्राह्मणा भुवि।
शयानं वीरशयने मया पुत्रेण पातितम्॥ 14-80-26(94751)
ब्राह्मणाः कुरुमुख्यस्य ये मुक्ता हयसारिणः।
कुर्वन्ति शान्तिं कामस्य रणे योऽयं मया हतः॥ 14-80-27(94752)
व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे।
आनृशंसस्य पापस्य पितृहन्तू रणाजिरे॥ 14-80-28(94753)
दुश्चरा द्वादश समा हत्वा पितरमद्य वै।
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा॥ 14-80-29(94754)
शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे।
प्रायश्चित्तं हि नास्त्यन्यद्धत्वाऽद्य पितरं मम॥ 14-80-30(94755)
पश्य नागोत्तमसुते भर्तारं निहतं मया।
कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम्॥ 14-80-31(94756)
सोऽहमद्य गमिष्यामि गतिं पितृनिषेविताम्।
न शक्नोम्यात्मनाऽऽत्मानमहं दारयितुं शुभे॥ 14-80-32(94757)
सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि।
भव प्रीतिमती देवि सत्येनात्मानमालभे॥ 14-80-33(94758)
इत्युक्त्वा स ततो राजा दुःखशोकसमाहतः।
उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत्॥ 14-80-34(94759)
शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च।
त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे॥ 14-80-35(94760)
यदि नोत्तिष्ठति जयः पिता मे नरसत्तमः।
अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम्॥ 14-80-36(94761)
नहि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित्।
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः॥ 14-80-37(94762)
वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते।
पितरं तु निहत्यैवं दुर्लभा निष्कृतिर्मम॥ 14-80-38(94763)
एत एको महातेजाः पाण्डुपुत्रो धनंजयः।
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः॥ 14-80-39(94764)
इत्येवमुक्त्वा नृपते धनंजयसुतो नृपः।
उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः॥ ॥ 14-80-40(94765)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अशीतितमोऽध्यायः॥ 80 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-80-27 कामस्यति कां अस्येति च्छेदः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|